क्षुधा

ब्राह्मण ग्रन्थों में कहा गया है कि इन्द्र ने वृत्र को मारा तो वह २ भागों में विभाजित हो गया । एक भाग चन्द्रमा या सोम बन गया और दूसरा अशना । हम जो खाते हैं, यह उसी अशना रूपी वृत्र की तृप्ति के लिए खाते हैं। सोम जितना पूर्ण होता जाएगा, अशना उतनी ही क्षीण होती जाएगी ।

संदर्भ

मा नो अग्नेऽवीरते परा दा दुर्वाससेऽमतये मा नो अस्यै ।

मा नः क्षुधे मा रक्षस ऋतावो मा नो दमे मा वन आ जुहूर्थाः ॥ऋ. ७.१.१९

गोभिष्टरेमामतिं दुरेवां यवेन क्षुधं पुरुहूत विश्वाम् ।
वयं राजभिः प्रथमा धनान्यस्माकेन वृजनेना जयेम ॥ऋ. १०.४२.१०

न वा उ देवाः क्षुधमिद्वधं ददुरुताशितमुप गच्छन्ति मृत्यवः ।
उतो रयिः पृणतो नोप दस्यत्युतापृणन्मर्डितारं न विन्दते ॥१०.११७.

इन्द्रेण दत्तो वरुणेन शिष्टो मरुद्भिरुग्रः प्रहितो नो आगन् ।
एष वां द्यावापृथिवी उपस्थे मा क्षुधन् मा तृषत्॥अ. २.२९.

करम्भं कृत्वा तिर्यं पीबस्पाकमुदारथिम् ।
क्षुधा किल त्वा दुष्टनो जक्षिवान्त्स न रूरुपः ॥शौ.अ. ४.७.

मृत्योराषमा पद्यन्तां क्षुधं सेदिं वधं भयम् ।
इन्द्रश्चाक्षुजालाभ्यां शर्व सेनाममूं हतम् ॥अ. ८.८.१८

गोभिष्टरेमामतिं दुरेवां यवेन वा क्षुधं पुरुहूत विश्वे ।
वयं राजसु प्रथमा धनान्यरिष्टासो वृजनीभिर्जयेम ॥अ. २०.८९.१०

इन्द्रियम् वा आरण्यम् इन्द्रियम् एवात्मन् धत्ते यद् अनाश्वान् उपवसेत् क्षोधुकः स्यात् । यद् अश्नीयाद् रुद्रो ऽस्य पशून् अभि मन्येत । अपो ऽश्नाति तन् नेवाशितं नेवानशितम् । न क्षोधुको भवति नास्य रुद्रः पशून् अभि मन्यते वज्रो वै यज्ञः क्षुत् खलु वै मनुष्यस्य भ्रातृव्यः । यद् अनाश्वान् उपवसति वज्रेणैव साक्षात् क्षुधम् भ्रातृव्यꣳ हन्ति ॥ - तैसं १.६.७.४

उदरं वै वृत्रः क्षुत् खलु वै मनुष्यस्य भ्रातृव्यः । य एवं वेद हन्ति क्षुधम् भ्रातृव्यम् । - तैसं २.४.१२.६

भूतानि क्षुधम् अघ्नन्त् सद्यो मनुष्या अर्धमासे देवा मासि पितरः संवत्सरे वनस्पतयस् तस्माद् अहरहर् मनुष्या अशनम् इच्छन्ते ऽर्धमासे देवा इज्यन्ते मासि पितृभ्यः क्रियते संवत्सरे वनस्पतयः फलं गृह्णन्ति य एवं वेद हन्ति क्षुधम् भ्रातृव्यम् ॥ - तैसं २.५.६.६

अश्मन्न् ऊर्जम् इति परि षिञ्चति मार्जयत्य् एवैनम् अथो तर्पयत्य् एव
स एनं तृप्तो ऽक्षुध्यन्न् अशोचन्न् अमुष्मिम्̐ लोक उप तिष्ठते – तै.सं. ५.४.४.१

अश्मम्̇स् ते क्षुध् । अमुं ते शुक् ऋच्छतु यं द्विष्म इत्य् आह
यम् एव द्वेष्टि तम् अस्य क्षुधा च शुचा चार्पयति – तै.सं. ५.४.४.१

प्रातर् मध्यंदिने सायं तन् मनोर् व्रतम् आसीत् पाकयज्ञस्य रूपम् पुष्ट्यै
प्रातश् च सायं चासुराणां निर्मध्यं क्षुधो रूपं ततस् ते पराभवन्
मध्यंदिने मध्यरात्रे देवानां ततस् ते ऽभवन्त् सुवर्गं लोकम् आयन्
यद् अस्य मध्यंदिने मध्यरात्रे व्रतम् भवति मध्यतो वा अन्नेन भुञ्जते मध्यत एव तद् ऊर्जं धत्ते भ्रातृव्याभिभूत्यै – तै.सं. ६.२.५.४

अश्मन्नूर्जं पर्वते  शिश्रियाणामिति । अश्मनि वा एषोर्क्पर्वतेषु श्रिता यदापोऽद्भ्य ओषधीभ्यो वनस्पतिभ्यो अधि सम्भृतं पय इत्येतस्माद्ध्येतत्सर्वस्मादधि सम्भृतं पयस्तां न इषमूर्जं धत्त मरुतः संरराणा इति मरुतो वै वर्षस्येशतेऽश्मंस्ते क्षुदिति निदधाति तदश्मनि क्षुधं दधाति तस्मादश्मा नाद्योऽथो स्थिरो वा अश्मा स्थिरा क्षुत्स्थिर एव तत्स्थिरं दधाति मयि त ऊर्गित्यपादत्ते तदात्मन्नूर्जं धत्ते तथा द्वितीयं तथा तृतीयम् – शतपथ ब्रा. ९.१.२.[५]

वम्रीभिरनुवित्तं गुहासु । श्रोत्रं त उर्व्यबधिरा भवामः । प्रजापतिसृष्टानां प्रजानाम् । क्षुधोपहत्यै सुवितं नो अस्तु । - तै.ब्रा. १.२.१.३

य एवं विद्वाँश्चातुर्मास्यैर्यजते । भ्रातृव्यस्यैव मासो वृक्त्वा । शीर्षन्नि च वर्तयते परि च । यैषा संवत्सर उपजीवा । वृङ्क्ते तां भ्रातृव्यस्य । क्षुधास्य भ्रातृव्यः पराभवति । लोहितायसेन निवर्तयते । यद्वा इमामग्निर्ऋतावागते निवर्तयति । एतदेवैनाँ रूपं कृत्वा निवर्तयति । सा ततः श्वःश्वो भूयसी भवन्त्येति ३ – तै.ब्रा. १.५.६.५

ते देवा गृहमेधीयेनेष्ट्वा । आशिता अभवन् । आञ्जताभ्यञ्जत । अनु वत्सानवासयन् । तेभ्योऽसुराः क्षुधं प्राहिण्वन् । सा देवेषु लोकमवित्त्वा । असुरान्पुनरगच्छत् । गृहमेधीयेनेष्ट्वा । आशिता भवन्ति । आञ्जतेऽभ्यञ्जते  तै.ब्रा. १.६.७.१

विषूचः शत्रूनपबाधमानौ । अप क्षुधं नुदतामरातिम् । पूर्णा पश्चादुत पूर्णा पुरस्तात् । - तै.ब्रा. ३.१.१.१२

पिपासायै गोव्यच्छम् । निरृत्यै गोघातम् । क्षुधे गोविकर्तम् । क्षुत्तृष्णाभ्यां तम् । यो गां विकृन्तन्तं माँसं भिक्षमाण उपतिष्ठते १६ – तै.ब्रा. ३.४.१६.१

वैश्वसृजाग्निचयनम् - इध्मँ ह क्षुच्चैभ्य उग्रे । तृष्णा चावहतामुभे । वागेषाँ सुब्रह्मण्यासीत् । छन्दोयोगान्विजानती ।कल्पतन्त्राणि तन्वानाहःसँस्थाश्च सर्वशः । - तै.ब्रा. ३.१२.९.६

धनञ्जयस्य शोभादि कर्म प्रोक्तं हि साङ्कृते ॥ ३३॥  निमीलनादि कूर्मस्य क्षुधा तु कृकरस्य च । देवदत्तस्य विप्रेन्द्र तन्द्रीकर्म प्रकीर्तितम् ॥जाबालदर्शनोपनिषत् ४.३४

कपालकुहरे जिह्वा प्रविष्टा विपरीतगा ॥ ७९॥  भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी । न रोगो मरणं तस्य न निद्रा न क्षुधा तृषा ॥ ८०॥  न च मूर्च्छा भवेत्तस्य यो मुद्रां वेत्ति खेचरीम् ।- ध्यानबिन्दूपनिषत्

खेचर्या मुद्रितं येन विवरं लम्बिकोर्ध्वतः । न पीयूषं पतत्यग्नौ न च वायुः प्रधावति ॥ ४१॥  न क्षुधा न तृषा निद्रा नैवालस्यं प्रजायते । न च मृत्युर्भवेत्तस्य यो मुद्रां वेत्ति खेचरीम् ॥ ४२॥ - योगशिखोपनिषत्

तेजःक्षये क्षुधा कान्तिर्नश्यते मारुतक्षये ।

वेपथुः संभवेन्नित्यं नाम्भसेनैव जीवति ॥ ५॥ - वराहोपनिषत्

यदि मध्ये क्षुधा मरिष्यति । यद्यग्रे न स्वर्गं लोकं गमिष्यतीति । आप.श्रौ.सू. ९.२०.७

यदन्नमद्य ते नक्तं न तत्प्रातः क्षुधोऽवति । मरं तदस्मान्मा हिंसीर्नहि तद्ददृशे दिवेति स्वप्नेऽन्नं भुक्त्वा । - आप.श्रौ.सू. १०.१३.११

घृतेनोखां पूरयति । दध्ना मधुना सिकताभिर्वा सर्वैर्वा ६
संसृज्य न रिक्तामवेक्षेत । शुग्विद्धा भवति ७
अथास्यां पय आनयति ८
संन्युप्य पूरणमेके समामनन्ति ९
यं कामयेत क्षोधुकः स्यादित्यूनां तस्येत्युक्तम् १० आप.श्रौ.सू. १६.२६.१०

मानतन्तव्यो होवाचाहुता वा एतस्य मानुष्याहुतिर्भवति य औपवसथिकं नाश्नाति १ अनीश्वरो ह क्षोधुको भवत्यकाम्यो जनानां पापवसीयसी हास्य प्रजा भवति २ य औपवसथिकं भुङ्क्त ईश्वरो ह भवत्यक्षोधुकः काम्यो जनानां वसीयसी हा स्य प्रजा भवति ३ तस्माद्यत्कामयेतौपवसथिकं भुञ्जीयाताम् ४ अध एवैतां रात्रिं शयीयाताम् ५ – गोभिलगृह्यसूत्र १.६.२

 

 

Make a free website with Yola