कृष्णाऽजिन-
शतपथब्राह्मण १.१.१.२२ इत्यादिषु हविर्यागेषु दश मिथुनानां उल्लेखमस्ति। शम्या-कृष्णाजिनयोः मिथुनं तेषु एकमस्ति। चितानिर्माणकाले शम्यायाः न्यासं शिश्नोपरि भवति। शिश्नः मुखस्थानीयायाः जिह्वायाः अनिरुक्तं रूपमस्ति। अन्यत्रापि जिह्वा शम्या इति कथनमुपलब्धं अस्ति। अतएव, यदि शम्यायाः कृष्णाजिनेन सह मिथुनं संभवमस्ति, तर्हि जिह्वायाः अपि कृष्णाजिनेन सह मिथुनं शक्यते। सार्वत्रिकरूपेण अयं कथनं उपलभ्यते यत् यज्ञो वै कृष्णाजिनम्। पुराणेषु यज्ञवाराहस्य कल्पना अस्ति, यस्य अङ्गाङ्गः यज्ञात्मकः अस्ति। खजुराहो मध्ये यज्ञवराहस्य या प्रतिमा उपलभ्यते, तस्याः मुखे सरस्वती विराजति (स्कन्दपुराणे ५.१.५२.४३ एवं मत्स्यपुराणे २४८.६८ यज्ञवाराहस्य जिह्वायां अग्नेः स्थित्याः उल्लेखमस्ति, न सरस्वत्याः। सरस्वत्याः वासं कपिलागौः जिह्वायां अस्ति, अयं कथनमस्ति)। अतएव, अयं विचारणीयः अस्ति – किं पुराणेषु यज्ञवाराहः वैदिकवाङ्मयस्य कृष्णाजिनस्य रूपमस्ति। कृष्णाजिनशब्दस्य पूर्वरूपं कृष्णाञ्जनः प्रतीयते। अञ्जनः अर्थात् कर्मफलानां भस्मीकरणम्। गणितस्य भाषायां, अयं आवश्यकमस्ति, किन्तु न पर्याप्तम्(नैसैसरी बट इनसफीशियेण्ट)। अतः परं ब्रह्मानन्दस्य अनुभवमपि आवश्यकमस्ति। अतएव, कृष्णाजिने ये कृष्णबिन्दवः भवन्ति, ते ऋग्वेदस्य प्रतीकाः सन्ति, ये श्वेतबिन्दवः, ते सामवेदस्य। वायुपुराणे २.४२.८२ जिह्वाग्रे शाक्तपीठस्य एवं हृदये वैष्णवपीठस्य उल्लेखमस्ति।
कृष्णाजिनस्य यज्ञवाराहेण साकं तादात्म्यस्य एकं अन्यं प्रमाणमपि उपलभ्यते। तैत्तिरीयसंहितायां ५,४,४,४ कार्ष्णी उपानहस्य उल्लेखमस्ति। अयं उपानहः मृत्युरूपी अग्नितः रक्षां करोति। कर्मकाण्डे यदा अग्निचयनं कुर्वन्ति, तदा चितिउपरि आरोहणाय यजमानः वाराही उपानहौ धारयति।
संदर्भाः
*
मृदःखननपूर्वकं चर्मपत्रयोः संभरणम्---
कृष्णाजिनेन सम् भरति यज्ञो वै कृष्णाजिनं यज्ञेनैव यज्ञꣳ
सम् भरति यद् ग्राम्याणाम् पशूनां चर्मणा सम्भरेद् ग्राम्यान्
पशूञ् छुचार्पयेत् कृष्णाजिनेन सम् भरत्य् आरण्यान् एव पशून्
शुचार्पयति …..लोमतः सम् भरत्य् अतो
ह्य् अस्य मेध्यम् । कृष्णाजिनं च पुष्करपर्णं च सꣳ
स्तृणातीयं वै कृष्णाजिनम् असौ पुष्करपर्णम् आभ्याम् एवैनम्
उभयतः परि गृह्णाति ।।
तैसं
५,१, ४,
२;
काठ १९, ४; कौ ४,
११;
माश ६,४,१,
६; तैआ ५,२,
१३ (तु. माश ३,२,१,
८) ।
* मृदासंभरणम् -- यद् ग्राम्याणाम् पशूनां चर्मणा सम्भरेद् ग्राम्यान् पशूञ् छुचार्पयेत् कृष्णाजिनेन सम् भरत्य् आरण्यान् एव पशून् शुचार्पयति ......कृष्णाजिनं च पुष्करपर्णं च सꣳ स्तृणातीयं वै कृष्णाजिनम् असौ पुष्करपर्णम् । तैसं ५,१, ४, ३; माश ६,४,१, ९ ।
* लोमतः सं भरत्यतो ह्यस्य ( कृष्णाजिनस्य) मेध्यम् । तैसं ५, १, ४, ३ ।
*
उखानिर्माणम्
--
अजलोमैः सꣳ
सृजति । एषा वा अग्नेः प्रिया तनूर् यद् अजा प्रिययैवैनं तनुवा
सꣳ
सृजत्य् अथो तेजसा कृष्णाजिनस्य लोमभिः सम्
सृजति।
यज्ञो वै कृष्णाजिनम् । ।
तैसं ५, १, ६,
२-३ ।
* उख्यधारणम्--- आसीनः प्रति मुञ्चते तस्माद् आसीनाः प्रजाः प्र जायन्ते कृष्णाजिनम् उत्तरम् । तेजो वै हिरण्यम् ब्रह्म कृष्णाजिनम् । तेजसा चैवैनम् ब्रह्मणा चोभयतः परि गृह्णाति। तैसं ५,१, १०,५ ।
* मृत्युर् वा एष यद् अग्निः ब्रह्मण एतद् रूपं यत् कृष्णाजिनम् । कार्ष्णी उपानहाव् उप मुञ्चते ब्रह्मणैव मृत्योर् अन्तर् धत्ते। तैसं ५,४,४,४, तै २,७,१, ४ ।
कृष्णाजिन उपनह्यति ऋक्सामयोर्वा एतद्रूपं यत् कृष्णाजिनम् – काठ ११.१०
* मृत्खननम् -- कृष्णाजिनेन संभरति यज्ञो वै कृष्णाजिनं यज्ञेनैव यज्ञँ संभरत्यस्कन्दाय न हि यज्ञे यज्ञस्स्कन्दत्येतद्वै ब्रह्मणो रूपं यत् कृष्णाजिनं ब्रह्मणा चैवैनमृक्सामाभ्यां च संभरति शर्म च स्थो वर्म च स्थ इति सँस्तृणातीयं वै पुष्करपर्णमसौ कृष्णाजिनमिमे एवैतत् सँस्तृणाति। काठ १९, ४; क ३०,२ ।
* कृष्णाजिनेन संभरति यज्ञो वै कृष्णाजिनं यज्ञेनैव यज्ञँ संभरत्यस्कन्दाय न हि यज्ञे यज्ञस्स्कन्दत्येतद्वै ब्रह्मणो रूपं यत् कृष्णाजिनं ब्रह्मणा चैवैनमृक्सामाभ्यां च संभरति शर्म च स्थो वर्म च स्थ इति सँस्तृणातीयं वै पुष्करपर्णमसौ कृष्णाजिनमि। काठ १९.४ ।
* गर्भो दीक्षितो....जरायु कृष्णाजिनम् । काठ २३,२ ।
* यत् कृष्णाजिनेन दीक्षत ऋक्सामे एवालभते.... .. अहोरात्रयोरेवौजो वीर्यमालभते ...द्यावापृथिव्योरेव तेजो यज्ञियमालभते । काठ २३,३ ।
कृष्णाजिनेन दीक्षते द्यावापृथिव्योरेव तेजो यज्ञियमालभत ऋक्सामयोश्शिल्पे स्थ इति - काठ २३,३
* स वाद्य दीक्षेत स वान्यं दीक्षयेद्, य एतस्य दीक्षितयशसस्य व्यवच्छित्तिं विद्याद् इति। कृष्णाजिनं वाव दीक्षितयशसम् । एतद्धि सर्वेषां वेदानां रूपम् । यानि शुक्लानि तानि साम्नां रूपं यानि कृष्णानि तान्यृचाम् । यदि वेतरथा । यान्येव बभ्रूणीव हरीणि तानि यजुषाम् । जै २, ६६ ।
* यदा माध्यंदिनीयाश् चमसाः प्रतिष्ठेरन्न् अथ जघनेनाहवनीयं प्राचीनग्रीवं कृष्णाजिनम् उपस्तृणीतेति ब्रूयाद् उदीचीनग्रीवं वा। । जै २,१३० ।
* पात्रासादनम् -- द्वन्द्वं पात्राण्युदाहरति शूर्पं चाग्निहोत्रहवणीं च स्फ्यं च कपालानि च शम्यां च कृष्णाजिनं चोलूखलमुसले दृषदुपल तद्दश – माश १.१.१.२२
* यज्ञो हि कृष्णः (मृगः) स यः स यज्ञस्तत्कृष्णाजिनम् । माश ३,२, १,२८ ।
* तस्य ( अग्नेः) एष स्वो लोको यत्कृष्णाजिनम् । माश ६,४,२,६ ।
* सादया यज्ञं सुकृतस्य योनाविति कृष्णाजिनं वै सुकृतस्य योनिः। माश ६,४,२, ६ ।
* नि होता होतृषदने विदान इति । अग्निर्वै होता कृष्णाजिनं होतृषदनं । माश ६,४.२.७ ।
* स एष स्थपतिसवो यं स्थापत्यायाभिषिञ्चेरन् स एतेन यजेत। गच्छति स्थापत्यं य एवं वेद। कृष्णाजिनेऽध्यभिषिच्यत एतद्वै प्रत्यक्षं ब्रह्मवर्चसं । तां १७.११.८ ।
* ब्रह्मणो वा एतदृक्सामयो रूपं यत्कृष्णाजिनम् । तै २,७,३, ३ ।
* यतो वै लोमानि कृष्णाजिनस्य ततो यज्ञः । मै ३, ६. ६ ।
* स ( ब्रह्मचारी) यन्मृगाजिनानि वस्ते तेन तद् ब्रह्मवर्चसमवरुन्धे । गो १.२.२
* तयोर् (अहोरात्रयोः) वा एतद्रूपँ यत् कृष्णाजिनस्य – मै ३.६.६