नैनम्̇ शीतरूरु हतस्

ताभ्याम् एनम् अभ्य् अनयत्

तस्माज् जञ्जभ्यमानाद् अग्नीषोमौ निर् अक्रामताम्

प्राणापानौ वा एनं तद् अजहिताम्

प्राणो वै दक्षो ऽपानः क्रतुस्

तस्माज् जञ्जभ्यमानो ब्रूयात् ।

मयि दक्षक्रतू इति

प्राणापानाव् एवात्मन् धत्ते

सर्वम् आयुर् एति – तै.सं. 2.5.2.4

 

हृत्सु क्रतुं वरुणो विक्ष्वग्निमिति हृत्सु ह्ययं क्रतुर्मनोजवः प्रविष्टो विक्ष्वग्निमिति विक्षु ह्ययं प्रजास्वग्नि – मा.श. 3.3.4.7

 

...[]

क्रतूदक्षौ ह वा अस्य मित्रावरुणौ । एतन्न्वध्यात्मं स यदेव मनसा कामयत इदं मे स्यादिदं कुर्वीयेति स एव क्रतुरथ यदस्मै तत्समृध्यते स दक्षो मित्र एव क्रतुर्वरुणो दक्षो ब्रह्मैव मित्रः क्षत्रं वरुणोऽभिगन्तैव ब्रह्म कर्ता क्षत्रियः

 

...[२१]

क्रतुरेकत्रिंश इति । य एवैकत्रिंश स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव क्रतुरेकत्रिंशस्तस्य चतुर्विंशतिरर्धमासाः षदृतवः संवत्सर एव क्रतुरेकत्रिंशस्तद्यत्तमाह क्रतुरिति संवत्सरो हि सर्वाणि भूतानि करोति तदेव तद्रूपमुपदधाति

 

...[]

अथैतान्यज्ञक्रतून्जुहोति । अग्निश्च मे घर्मश्च म इत्येतैरेवैनमेतद्यज्ञक्रतुभिः प्रीणात्यथो एतैरेवैनमेतद्यज्ञक्रतुभिरभिषिञ्चति

 

१०...[]

सत्यं ब्रह्मेत्युपासीत  अथ खलु क्रतुमयोऽयं पुरुषः स यावत्क्रतुरयमस्माल्लोकात्प्रैत्येवंक्रतुर्हामुं लोकं प्रेत्याभिसम्भवति

 

११...[]

स होवाच  असर्वक्रतुभ्यां वै यज्ञाभ्यामगन्त यदग्निष्टोमेन चोक्थ्येन च शतातिरात्रं सत्त्रमुपेत तेनासुरांस्तमोऽपहत्य सर्वं पाप्मानमपहत्य स्वर्गं लोकं प्रज्ञास्यथेति

 

१४...[३१]

स उपहवमिष्ट्वा भक्षयति  मयि त्यदिन्द्रियं बृहदित्येतद्वा इन्द्रियं बृहद्य एष तपति मयि दक्षो मयि क्रतुरिति क्रतूदक्षावेवात्मन्धत्ते घर्मस्त्रिशुग्विराजतीति घर्मो ह्येष त्रिशुग्विराजति

 

१४...[]

अथो खल्वाहुः  काममय एवायं पुरुष इति स यथाकामो भवति तथाक्रतुर्भवति यथाक्रतुर्भवति तत्कर्म कुरुते यत्कर्म कुरुते तदभिसम्पद्यत इति

 

१. क्रतुं दक्षं वरुण संशिशाधि । तैसं ,,,;

१. क्रतुं दक्षं वरुण संशिशाधीति वीर्यम्प्रज्ञानं वरुण सं शिशाधीत्येव तदाह - ,१३

२. इन्द्रतन्वाख्या इष्टकाः -- क्रत्वा शचीपतिः । तैसं ,,,  

३. धीतिश्च मे क्रतुश्च मे ( यज्ञेन कल्पताम् ) । तैसं ,,,

४. प्रजापतिर्वै भगो, यज्ञः क्रतुः । मै , ,१४, १.४.१५

५. मित्र एव क्रतुः । माश ४,,,१ ।

६.  क्रतुर् एकत्रिम्̇श इति पुरस्ताद् उप दधाति,     वाग् वै क्रतुः ।     यज्ञमुखं वाक् ।
    
यज्ञमुखम् एव पुरस्ताद् वि यातयति । तैसं , ,,

७. विश्वेषां त्वा देवानां क्रतुनाभिषिञ्चामि । मै ,,११;,,५ ।

८. संवत्सरो वाव क्रतुरेकत्रिंशस्तस्य चतुर्विंशतिरर्धमासाः षडृतवः संवत्सर एव

क्रतुरेकत्रिंशस्तद्यत्तमाह क्रतुरिति संवत्सरो हि सर्वाणि भूतानि करोति । माश ८,,,२१॥

९. स यदेव मनसा कामयतऽ इदं मे स्यादिदं कुर्वीयेति स एव क्रतुः । माश ४,,,१।।

१०. हृत्सु क्रतुं वरुणः  (अदधात् )] । तैसं , , , १-२,  काठ २,; क १,१९ । |

११. हृत्सु क्रतुं वरुणं दिक्ष्वग्निं दिवि सूर्यमदधात् सोममद्रौ ॥ - मै , ,

१२. हृत्सु ह्ययं क्रतुर्मनोजवः प्रविष्टः । माश ३,,,७ ॥ [तु- एकत्रिंश- १; अपान- ३८ द्र.]।

क्रतुस्थला- अग्नि- ५६५ द्र.

Make a free website with Yola