क्रवि – क्रिवि

प्राणिदेहमध्ये ये कोशिकाः सन्ति, तेषां जीवनकालः अङ्गे – अङ्गे भिन्नः भवति। चक्षुमध्ये या लैंसस्य कोशिका भवति, तस्य जीवनकालः जीवनपर्यन्तं भवति। मस्तिष्ककोशिका जीवनोपरान्तमपि जीविता भवति, अयं आधुनिक जीवविज्ञानस्य निर्णयः अस्ति। त्वक् कोशिकायाः जीवनकालः अल्पेव भवति।

केचन मृताः कोशाः सन्ति येषां देहतः निस्सारणं सम्भवमस्ति, यथा त्वक्, नख, केशादि। अन्ये कोशाः सन्ति येषां निस्सारणं संभवं नास्ति। तेषां उपयोगं नवीनकोशानां निर्माणे भवति। जीवविज्ञाने अस्य संज्ञा फेगोसाईट अस्ति। कथनमस्ति यत् रुधिरे श्वेतकणेषु यः न्यूट्रोफिलसंज्ञकः भागः भवति, तत् मृतकोशस्य भक्षणे रतः भवति। देहस्य कोशिका मरणात् पूर्वं स्वप्रतिकृतिं जनयति। किन्तु अयं प्रक्रिया अनन्ता नास्ति। सीमिता अस्ति।

वैदिकवाङ्मये मृतकोशिकायाः विघटनस्य, फैगोसाईटस्य संज्ञा क्रव्याद अग्निः अस्ति। कथनमस्ति यत् श्मशाने यातुधानाः, वेतालाः क्रव्यगन्धी भवन्ति, ते मृत कोशिकायाः दहनं प्रतीक्षन्ते। अयं पितृयानपन्थः अस्ति। अन्यपक्षस्य संज्ञा देवयानपन्थः भवति। ये गन्धर्वाः सन्ति, ते सोमगन्धी भवन्ति, सोमस्य परिष्कारं प्रतीक्षन्ते।

यः क्रव्यसंज्ञकः पितृयानपन्थः अस्ति एवं यः सोमसंज्ञकः देवयानपन्थः अस्ति, तयोः मध्ये एकः सेतुः अस्ति यस्य संज्ञा क्रिविः अस्ति। अस्य संकेतं वासं १०.२० तः प्राप्यते यत्र क्रिविः रुद्रस्य परं नाम अस्ति।

   वैदिकवाङ्मयानुसारेण, यदा एका कोशिका मृतिं गच्छति, तस्याः स्थानं रिक्तं भवति। तस्य स्थाने गर्तस्य निर्मितिः भवति यस्य संज्ञा क्रिविः अस्ति। अस्य क्रिवेः पूरणं ओजतः, इन्दुभ्यः संभवमस्ति। यजुर्वेदे एका यजुः अस्ति यत्र क्रिविः रुद्रस्य संज्ञा अस्ति। क्रिवेः चरमपरिणतिः अमा, अमावास्या भवने अस्ति। मा अर्थात् मापनीयः, सीमितः। अमा अर्थात् विस्तीर्ण। अमातः विपरीता स्थित्याः संज्ञा आमः, अपक्वः अस्ति। मृतस्य देहमांसस्य संज्ञा आमः एवास्ति। अथर्ववेद १२.२ सूक्तं क्रव्यादअग्नेः अस्ति यत्र मृतकोशिकायाः चरमपरिणतिः सीसाभवने अस्ति, इति कथनं अस्ति।

पुराणेषु क्रिविः नाम दुर्लभप्रायः प्रतीयते। स्कन्दपुराणे ३.१.१० कथनमस्ति - वेतालवरदे तीर्थे नरः स्नात्वा द्विजोत्तमाः ।। ततः शनैःशनैर्गच्छेद्गन्धमादनपर्वतम् ।। योंऽबुधौ सेतुरूपेण वर्तते गन्धमादनः ।।

 संदर्भाः- 

 रुद्र यत् ते क्रिवि परं नाम तस्मिन् हुतम् अस्य् अमेष्टम् असि स्वाहा ॥ वासं १०.२०

हे रुद्र, यत्ते तव क्रिवि कर्तृ हिंसितृ वा परमुत्कृष्टं नामास्ति । 'क्रिवि हिंसाकरणयोः' इप्रत्ययः । एवं रुद्रं संबोध्य होमद्रव्यमाह । हे हविः, तस्मिन् रुद्रनाम्नि त्वं हुतमसि अमेष्टं चासि । अमाशब्दो गृहवाची । मदीये गृहे इष्टं दत्तमसि स्वाहा सुहुतमस्तु ॥ २० ॥

क्रिमि - क्रयी। अमेष्टम् - यमेष्टम् । रुद्र यत् ते क्रयी परं नाम तस्मै हुतम् असि यमेष्टम् असि ॥ - तैसं १.८.१४.२

रुद्र यत्ते क्रयी परं नामेत्याह । यद्वा अस्य क्रयी परं नाम । तेन वा एष हिनस्ति । यहिनस्ति । तेनैवैनसह शमयति । तस्मै हुतमसि यमेष्टमसीत्याह । यमादेवास्य मृत्युमवयजते। - तै.ब्रा. १.७.८.६

आ व इन्द्रं क्रिविं यथा वाजयन्तः शतक्रतुम् ।
मंहिष्ठं सिञ्च इन्दुभिः ॥१.३०.

यूयं न उग्रा मरुतः सुचेतुनारिष्टग्रामाः सुमतिं पिपर्तन ।
यत्रा वो दिद्युद्रदति क्रिविर्दती रिणाति पश्वः सुधितेव बर्हणा ॥१.१६६.

सास्मा अरं बाहुभ्यां यं पिताकृणोद्विश्वस्मादा जनुषो वेदसस्परि ।
येना पृथिव्यां नि क्रिविं शयध्यै वज्रेण हत्व्यवृणक्तुविष्वणिः ॥२.१७.

अध त्विषीमाँ अभ्योजसा क्रिविं युधाभवदा रोदसी अपृणदस्य मज्मना प्र वावृधे ।
अधत्तान्यं जठरे प्रेमरिच्यत सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्य इन्दुः ॥२.२२.

प्र व एते सुयुजो यामन्निष्टये नीचीरमुष्मै यम्य ऋतावृधः ।
सुयन्तुभिः सर्वशासैरभीशुभिः क्रिविर्नामानि प्रवणे मुषायति ॥५.४४.

याभिः सिन्धुमवथ याभिस्तूर्वथ याभिर्दशस्यथा क्रिविम् ।
मयो नो भूतोतिभिर्मयोभुवः शिवाभिरसचद्विषः ॥८.२०.२४

ताभिरा यातं वृषणोप मे हवं विश्वप्सुं विश्ववार्यम् ।
इषा मंहिष्ठा पुरुभूतमा नरा याभिः क्रिविं वावृधुस्ताभिरा गतम् ॥८.२२.१२

प्र यो ननक्षे अभ्योजसा क्रिविं वधैः शुष्णं निघोषयन् ।
यदेदस्तम्भीत्प्रथयन्नमूं दिवमादिज्जनिष्ट पार्थिवः ॥८.५१.

द्युम्नी वां स्तोमो अश्विना क्रिविर्न सेक आ गतम् ।
मध्वः सुतस्य स दिवि प्रियो नरा पातं गौराविवेरिणे ॥८.८७.

अभि वह्निरमर्त्यः सप्त पश्यति वावहिः ।
क्रिविर्देवीरतर्पयत् ॥९.९.

 

क्रवि

यदश्वस्य क्रविषो मक्षिकाश यद्वा स्वरौ स्वधितौ रिप्तमस्ति ।
यद्धस्तयोः शमितुर्यन्नखेषु सर्वा ता ते अपि देवेष्वस्तु ॥९॥
यदूवध्यमुदरस्यापवाति य आमस्य क्रविषो गन्धो अस्ति ।
सुकृता तच्छमितारः कृण्वन्तूत मेधं शृतपाकं पचन्तु ॥१.१६२.१०

अग्ने त्वचं यातुधानस्य भिन्धि हिंस्राशनिर्हरसा हन्त्वेनम् ।
प्र पर्वाणि जातवेदः शृणीहि क्रव्यात्क्रविष्णुर्वि चिनोतु वृक्णम् ॥ऋ. १०.८७.५

यः पौरुषेयेण क्रविषा समङ्क्ते यो अश्व्येन पशुना यातुधानः ।
यो अघ्न्याया भरति क्षीरमग्ने तेषां शीर्षाणि हरसापि वृश्च ॥१०.८७.१६

य आमं मांसमदन्ति पौरुषेयं च ये क्रविः ।
गर्भान् खादन्ति केशवास्तान् इतो नाशयामसि ॥शौअ ८.६.२३

 

Make a free website with Yola