कुशत्रयघटितो ब्रह्मग्रन्थिः कूर्चशब्देनोच्यते कूर्चः कुशमुष्टिरिति त्रिपाठिनः । तदुपरि कूर्चोपरि कृशानोर्वह्नेर्दश कला यकारादयो दशवर्णा आद्याः प्रथमा यासां ताः प्रादक्षिण्येन न्यसेत्तदनन्तरं इमा दश कला गन्धादिभिः पूजयेत् । - क्रमदीपिका चतुर्थः पटलः

सपादमासनं कूर्चः (कुरछीचौकी) पादरहितं फलकं कशिपुशब्देन मृद्वासनं मसूरक उच्यतेसंग्र० व्या० - वाचस्पत्यम्

अत्र कूर्चमर्हणं च ददाति भगवतो ऽयं कूर्चः दर्भमयः त्रिवृद्धरितस्सुवर्णमयस्तं जुषस्व इति - बौधायनगृह्यसूत्रम्/गृह्यशेषः/प्रश्नः ।४.२.२१

ग्रथितं पञ्चदशभिर्दर्भैः कूर्चं प्रगह्य च । द्वादशांगुलदीर्घन्तु जीवस्थाने निधाय च ।। २८.८७ ।। ध्रुवबेरात्समादाय तत्कूर्चेर्ऽचनमाचरेथ् । बालालयं भवेच्छेत्तु अर्चापीठे विशेषतः ।। २८.८८ ।। कूर्चं सन्न्यस्य हृदयात्प्रणिध्यां विनिवेश्यच । कूर्चं तु बिंबवत्स्मृत्वा मनसैवाक्षराणि तु ।। भृगुसंहिता २८.८९ ।।

ॐ दत्तात्रेयः शिरः पातु सहस्राब्जेषु संस्थितः । भालं पात्वानसूयेयश्चन्द्रमण्डलमध्यगः ॥ २८॥ कूर्चं मनोमयः पातु हं क्षं द्विदलपद्मभूः ।
ज्योतिरूपोऽक्षिणी पातु पातु शब्दात्मकः श्रुती ॥ दत्तात्रेयवज्रकवचम् २९

हस्तमात्रं तथायामे प्रोक्षणार्थं तु कूर्चकं । मार्जनार्थन्तु कूर्चं च षडङ्गुलमिति स्मृतं ।। २२.१३ ।।पञ्चभिर्वात्रिभिर्वाथ द्वादशांगुलमायतं । कलशार्थं तु कुर्वीत यथाकलशसंख्ययो ।। भृगुसंहिता २२.१४ ।।

प्रणवेन कूर्चं ददाति । -बौधायनगृह्यसूत्रम्/गृह्यशेषः/प्रश्नः २.१३.१९

- - -अग्निदेवत्यं सम्मार्जनं रुद्रदेवत्यं कूर्चं प्रजापतिदेवत्यमुदकुम्भं - बौधायनगृह्यसूत्रम्/गृह्यशेषः/प्रश्नः १.८.३

कुवश्चट् दीर्घश्च।।२.२.७१

(कौतेश्चट्प्रत्ययो दीर्घश्च भवति।कूच् कीलाट्कूची)

कृञश्च। - २.२.७३

(कृञश्च चट्प्रत्ययः टेरू च भवति। कूर्चं श्मश्रुः। कूर्चमिव कूर्चकं कूर्चिकेति) – पा.उ.सू. भोजवृत्तिः।

आसन्दीम् उद्गाता रोहति साम्राज्यम् एव गच्छन्ति     प्लेङ्खम्̇ होता नाकस्यैव पृष्ठम्̇ रोहन्ति     कूर्चाव् अध्वर्युर् ब्रध्नस्यैव विष्टपं गच्छन्ति । - तै.सं. ७.५.८.५

कूर्चब्राह्मणम्

अथ ह जनको वैदेहः कूर्चादुपावसर्पन्नुवाच। नमस्ते याज्ञवल्क्यानु मा शाधीति स होवाच यथा वै सम्राण्महान्तमध्वानमेष्यन्रथं वा नावं वा समाददीतैवमेवैताभिरुपनिषद्भिः समाहितात्माऽस्येवं वृन्दारक आढ्यः सन्नधीतवेद उक्तोपनिषत्क इतो विमुच्यमानः क्व गमिष्यसीति नाहं तद्भगवन्वेद यत्र गमिष्यामीत्यथ वै तेऽहं तद्वक्ष्यामि यत्र गमिष्यसीति ब्रवीतु भगवानिति - १४.६.११.[१]
स होवाच। इन्धो वै नामैष योऽयं दक्षिणेऽक्षन्पुरुषस्तं वा एतमिन्धं सन्तमिन्द्र इत्याचक्षते परोऽक्षेणेव परोऽक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः - १४.६.११.[२]
अथैतद्वामेऽक्षिणि पुरुषरूपम्। एषाऽस्य पत्नी विराट्तयोरेष संस्तावो य एषोऽन्तर्हृदय आकाशोऽथैनयोरेतदन्नं य एषोऽन्तर्हृदये लोहितपिण्डोऽथैनयोरेतत्प्रावरणं यदेतदन्तर्हृदये जालकमिवाथैनयोरेषा सृतिः सती संचरणी यैषा हृदयादूर्ध्वा नाड्योच्चरति - १४.६.११.[३]
ता वा अस्यैताः। हिता नाम नाड्यो यथा केशः सहस्रधा भिन्न एताभिर्वा एतमास्रवदास्रवति तस्मादेष प्रविविक्ताहारतर इव भवत्यस्माच्छारीरादात्मनः - १४.६.११.[४]
तस्या वा एतस्य पुरुषस्य। प्राची दिक्प्राञ्चः प्राणा दक्षिणा दिग्दक्षिणाः प्राणाः प्रतीची दिक्प्रत्यञ्चः प्राणा उदीची दिगुदञ्चः प्राणा ऊर्ध्वा दिगूर्ध्वाः प्राणा अवाचीदिगवाञ्चः प्राणा सर्वा दिशः सर्वे प्राणाः - १४.६.११.[५]
स एष नेति नेत्यात्मा। अगृह्यो न हि गृह्यतेऽशीर्यो न हि शीर्यतेऽसङ्गोऽसितो न सज्यते न व्यथतेऽभयं वै जनक प्राप्तोऽसीति होवाच याज्ञवल्क्यः स होवाच जनको वैदेहो नमस्ते याज्ञवल्क्याभयं त्वागच्छताद्यो नो भगवन्नभयं वेदयस इमे विदेहा
अयमहमस्मीति – शतपथ १४.६.११.[६]

किं हुत्वा प्रकम्पयसि किं स्रुचं परिमृज्य कूर्चे न्यमार्जीः - - - -- अथ यद्धुत्वा प्रकम्पयामि। वायव्यं तद्यत्स्रुचं परिमृज्य कूर्चे न्यमार्जिषमोषधिवनस्पतींस्तेनाप्रैषं – शतपथ ११.५.३.७

१३.४.३ पारिप्लवाख्यानब्राह्मणम्

प्रमुच्याश्वं दक्षिणेन वेदिं हिरण्मयं कशिपूपस्तृणाति तस्मिन्होतोपविशति दक्षिणेन होतारं हिरण्मये कूर्चे यजमानो दक्षिणतो ब्रह्मा चोद्गाता च हिरण्मय्योः कशिपुनोः पुरस्तात्प्रत्यङ्ङध्वर्युर्हिरण्मये वा कूर्चे हिरण्मये वा फलके – १३.४.३.१

आसन्दीम् उद्गाताधिरोहति, प्लेंखं होता, कूर्चाव् अध्वर्यू, कूर्चसद एवान्या होत्रा भवन्ति। - जै.ब्रा. २.४१८

पयःप्राशनम् अग्न्युपस्थानम् -- यत् पूर्वम् उपमार्ष्टि तत् कूर्चे निलिम्पति ।
ओषधीस् तेन प्रीणाति ।
यद् द्वितीयम् तद् दक्षिणेन कूर्चम् उत्तानम् पाणिम् निदधाति ।
पितॄंस् तेन प्रीणाति । - कौशीतकि ब्रा. २.२

फलकमारुह्याध्वर्युः प्रतिगृणाति
कूर्चानितरेऽध्यासत ऊर्ध्वा एव तदुत्क्रामन्तो यन्ति – पञ्चविंश ब्रा. ५.५.१२

कूर्चान्होत्रकाः समारोहन्ति ब्रह्मा चौदुम्बरीमासन्दीमुद्गाता, इति । - ऐ.आ. ५.१.१

 

 

 

Make a free website with Yola