कूष्माण्ड

टिप्पणी – नवरात्र के चतुर्थ दिन अर्थात् आश्विन् शुक्ल चतुर्थी को कूष्माण्डा देवी की अर्चना का निर्देश है। कहा गया है कि कूष्माण्डा देवी के हाथ में सुरा कलश होता है जो रुधिर से आप्लुत होता है। इससे अधिक कोई सूचना कूष्माण्डा देवी के विषय में प्राप्त नहीं होती। अधिक सूचना प्राप्त करने के लिए हम कूष्माण्ड होम तथा कूष्माण्ड पर उपलब्ध अन्य संदर्भों पर ध्यान दे सकते हैं। स्कन्द पुराण में उल्लेख है कि इन्द्र ने विश्वेदेवों को श्राद्ध विशेष में भाग देने से मना कर दिया। तब विश्वेदेवों के अश्रु पृथिवी पर गिरे जिनसे कूष्माण्डों की उत्पत्ति हुई।  ब्रह्मा ने कूष्माण्डों के भोजन के लिए व्यवस्था दी कि ब्राह्मणों के जिन पात्रों पर भस्मरेखा नहीं बनी होगी, उनके द्वारा दिया गया भोजन कूष्माण्डों को प्राप्त होगा। कूष्माण्ड शब्द से संकेत मिलता है कि इस शब्द की निरुक्ति कु – ऊष्मा – अण्ड के रूप में की जा सकती है। कु अर्थात् कुत्सित। विश्वेदेवों के अश्रुओं को रौद्र प्राण कह सकते हैं। यह रौद्र प्राण जब हमारी देह में वास करते हैं तो वहां रौद्र प्राणों का एक समूह बन जाता है जिसे कूष्माण्ड कहा गया है। इन रौद्र प्राणों को पोषण हमारे उन कर्मों से मिलता है जो कर्मफल उत्पन्न करते हैं। ब्राह्मण का कर्तव्य है कि उसके कर्मों से पुनः कर्मफल उत्पन्न न हों। पुराणों की भाषा में इसे कहा गया है कि ब्राह्मण के पात्र पर भस्मरेखा बनी होनी चाहिए।

     कूष्माण्ड होम में व्यवस्था की गई है कि कूष्माण्ड बने प्राणों का उद्धार कैसे किया जाए। कहा गया है कि कूष्माण्ड प्राणों का वास्तविक स्वरूप वातरशना, अर्थात् सूर्य की किरणें हैं ( ऋग्वेद 10.136 सूक्त वातरशना नामक ऋषि के पुत्रों केशी आदि को समर्पित है)। कहा गया है कि वातरशना ऋषि ही कूष्माण्ड के रूप में छिपा बैठा है। तप व श्रद्धा द्वारा इसको पहचानना है। तब यह ऋण, पाप आदि से मुक्त होने का उपाय बताएगा। वातरशना का दूसरा स्वरूप अरुण केतु भी है। सोमयाग में अग्निचयन के माध्यम से अरुण केतु को श्येन का, गरुड का रूप देना होता है।

स तपोऽतप्यत । स तपस्तप्त्वा । शरीरमधूनुत । तस्य यन्माँसमासीत् । ततोऽरुणाः केतवो वातरशना ऋषय उद तिष्ठन् (२)  - तै.आ.

दिक्षूपदधाति । दिक्षु वा आपः । अन्नं वा आपः । अद्भ्यो वा अन्नं जायते । यदेवाद्भ्योऽन्नं जायते । तदवरुन्धे, इति । तं वा एतमरुणाः केतवो वातरशना ऋषयोऽचिन्वन् । तस्मादारुणकेतुकः, इति । तदेषाऽभ्यनूक्ता, इति । कैतवो अरुणासश्च । ऋषयो वातरशनाः । प्रतिष्ठां शतधा हि । समाहितासो सहस्रधायसमिति, इति । शतशश्चैव सहस्रशश्च प्रतितिष्ठति । य एतमग्निं चिनुते । - तै.आ. 1.24

वातरशना ह वा ऋषयः श्रमणा ऊर्ध्वमन्थिनो बभूवुस्तानृषयोऽर्थमायंस्ते निलायमचरंस्तेऽनुप्रविशुः कूश्माण्डानि तास्तेष्वन्वविन्दञ्छ्रद्धया च तपसा च-,इति । तानृषयोऽब्रुवन्कथा निलायं चरथेति त ऋषीनब्रुवन्नमो वोऽस्तु भगवन्तोऽस्मिन्धाम्नि केन वः सपर्यामेति तानृषयोऽब्रुवन्पवित्रं नो ब्रूत येनारेपसः स्यामेति त एतानि सूक्तान्यपश्यन्-,इति। यद्देवा देव हेळनं यददीव्यन्नृणमहं बभूवाऽऽयुष्टे विश्वतो दध-दित्येतैराज्यं जुहुत वैश्वानराय प्रतिवेदयाम इत्युपतिष्ठत यदर्वाचीनमेनो भ्रूणहत्यायास्तस्मान्मोक्ष्यध्व इति-, इति । त एतैरजुहवुस्तेऽरेपसोऽभवन्-, इति । कर्मादिष्वेतैर्जुहुयात्पूतो देवलोकान्समश्नुते ( ), इति ।। - तै.आ. 2.7.1

VERSE: 20.14
यद् देवा देवहेडनं देवासश् चकृमा वयम् ।
अग्निर् मा तस्माद् एनसो विश्वान् मुञ्चत्व् अम्̐हसः ॥
यदि दिवा यदि नक्तम् एनाम्̐सि चकृमा वयम् ।
वायुर् मा तस्माद् एनसो विश्वान् मुञ्चत्व् अम्̐हसः ॥

यदि जाग्रद् यदि स्वप्न ऽ एनाम्̐सि चकृमा वयम् ।
सूर्यो मा तस्माद् एनसो विश्वान् मुञ्चत्व् अम्̐हसः ॥

(.११४.१ ) यद्देवा देवहेडनं देवासश्चकृम वयम् ।

(.११४.१ ) आदित्यास्तस्मान् नो युयमृतस्य ऋतेन मुञ्चत ॥१॥

(.११४.२ ) ऋतस्य ऋतेनादित्या यजत्रा मुञ्चतेह नः ।

(.११४.२ ) यज्ञं यद्यज्ञवाहसः शिक्षन्तो नोपशेकिम ॥२॥

(.११४.३ ) मेदस्वता यजमानाः स्रुचाज्यानि जुह्वतः ।

(.११४.३ ) अकामा विश्वे वो देवाः शिक्षन्तो नोप शेकिम ॥३॥

2.4   अनुवाक ४

 

यददीव्यन्नृणमहं बभूवादित्सन्वा संजगर जनेभ्यः । अग्निर्मा तस्मादिन्द्रश्च संविदानौ प्रमुञ्चताम्, इति । यद्धस्ताभ्यां चकर किल्बिषाण्यक्षाणां वग्नुमुपजिघ्नमानः । उग्रंपश्या च राष्ट्रभृच्च तान्यप्सरसावनुदत्तामृणानि, इति ।

उग्रंपश्ये राष्ट्रभृत्किल्बिषाणि यदक्षवृत्तमनुदत्तमेतत् । नेन्न ऋणानृणव इत्समानो यमस्य लोके अधिरज्जुराय, इति । अव ते हेळ उदुत्तममिमं मे वरुण तत्त्वा यामि त्वं नो अग्ने स त्वं नो अग्ने इति । संकुसुको विकुसुको निर्ऋथो यश्च निस्वनः । तेऽ१स्मद्यक्ष्ममनागसो दूराद्दूरमचीचतम्, इति । निर्यक्ष्ममचीचते कृत्यां निर्ऋतिं च । तेन योऽ१स्मत्समृच्छातै तमस्मै प्रसुवामसि, इति । दुःशंसानुशंसाभ्यां घणेनानुघणेन च । तेनान्योऽ१स्मत्समृच्छातै तमस्मै प्रसुवामसि, इति । सं वर्चसा पयसा सं तनूभिरगन्महि मनसा सं शिवेन । त्वष्टा नो अत्र विदधातु रायोऽनुमार्ष्टु तन्वो१ यद्विलिष्टम् (),इति ।। कृत्यां निर्ऋतिं च पञ्च च ।। - तै.आ. 2.4.1

आयुष्टे विश्वतो दधदयमग्निर्वरेण्यः । पुनस्ते प्राण आयाति परा यक्ष्मं सुवामि ते, इति ।- तै.आ. 2.5.1

 
(.११९.१ ) यददीव्यन्न् ऋणमहं कृणोम्यदास्यन्न् अग्ने उत संगृणामि ।

(.११९.१ ) वैश्वानरो नो अधिपा वसिष्ठ उदिन् नयाति सुकृतस्य लोकम् ॥१॥

(.११९.२ ) वैश्वानराय प्रति वेदयामि यदि ऋणं संगरो देवतासु ।

(.११९.२ ) स एतान् पाशान् विचृतं वेद सर्वान् अथ पक्वेन सह सं भवेम ॥२॥

(.११९.३ ) वैश्वानरः पविता मा पुनातु यत्संगरमभिधावाम्याशाम् ।

(.११९.३ ) अनाजानन् मनसा याचमानो यत्तत्रैनो अप तत्सुवामि ॥३॥

आयुष् टे विश्वतो दधद् अयम् अग्निर् वरेण्यः । पुनस् ते प्राण आयति परा यक्ष्मम्̇ सुवामि ते ॥
आयुर्दा अग्ने हविषो जुषाणो घृतप्रतीको घृतयोनिर् एधि । घृतम् पीत्वा मधु चारु गव्यम् पितेव पुत्रम् अभि ॥

VERSE: 5
रक्षताद् इमम् ॥
तस्मै ते प्रतिहर्यते जातवेदो विचर्षणे । अग्ने जनामि सुष्टुतिम् ॥
दिवस् परि प्रथमं जज्ञे अग्निर् अस्मद् द्वितीयम् परि जातवेदाः । तृतीयम् अप्सु नृमणा अजस्रम् इन्धान एनं जरते स्वाधीः ॥  - तै.सं. 1.3.14.4


' केशी ' इति सप्तर्चमष्टमं सूक्तमग्निसूर्यवायुदेवताकम् । वातरशनपुत्रा जूतिवातजूतिप्रभृतयः प्रत्यृचं क्रमेणर्षयः । तथा चानुक्रान्तं - केशी मुनयो वातरशना जूतिर्वातजूतिर्विप्रजूतिर्वृषाणकः करिक्रत एतश ऋष्यशृङ्गश्चैकर्चाः कैशिनम् ' इति । गतो विनियोगः ।।

१०,१३६.०१  केश्यग्निं केशी विषं केशी बिभर्ति रोदसी ।

१०,१३६.०१ केशी विश्वं स्वर्दृशे केशीदं ज्योतिरुच्यते ॥

केशाः केशस्थानीया रश्मयः । तद्वन्तः केशिनोऽग्निर्वायुः सूर्यश्च । एते त्रयः स्तूयन्ते । केशी रश्मिभिर्युक्तः प्रकाशमानो वा सूर्यः अग्निं बिभर्ति । हविर्भिः पोषयति धारयति वा । कालविशेषे। ह्यग्नेः पोषणाय होमः । स च कालविशेषः सूर्यगत्यधीन इति सूर्य एव बिभर्तीत्युच्यते । तथा विषम् । उदकनामैतत् । उदकं रश्मिभिर्घर्मसमय आहृतमयमेव केशी बिभर्ति विस्रष्टुम्। तथा रोदसी द्यावापृथिव्यौ अपि अयमेव बिभर्ति । अपि च विश्वं व्याप्तं स्वः सर्वं जगत् दृशे दर्शनाय अयमेव केशी करोति । प्रकाशयतीत्यर्थः । इत्थंमहानुभावः केशी को नामेत्यत आह । इदं दृश्यमानं मण्डलस्थं यत् ज्योतिः इदम् एव केशी इति उच्यते । नान्य इत्यर्थः ।।

 

१०,१३६.०२  मुनयो वातरशनाः पिशङ्गा वसते मला ।

१०,१३६.०२ वातस्यानु ध्राजिं यन्ति यद्देवासो अविक्षत ॥

वातरशनाः वातरशनस्य पुत्राः मुनयः अतीन्द्रियार्थदर्शिनो जूतिवातजूतिप्रभृतयः पिशङ्गा पिशङ्गानि कपिलवर्णानि मला मलिनानि वल्कलरूपाणि वासांसि वसते आच्छादयन्ति ।  ' वस आच्छादने ' । आदादिकः । ईदृशास्ते यत् यदा देवासः देवाः तपसो महिम्ना दीप्यमानाः सन्तः अविक्षत देवतास्वरूपं प्राविशन् । विशेर्लुङि शल इगुपधादनिटः क्सः । व्यत्ययेनात्मने- पदम् । तदा ते वातस्य वायोः ध्राजिं गतिम् अनु यन्ति अनुगच्छन्ति । प्राणोपासनया प्राण- रूपिणो वायुभावं प्रपन्ना इत्यर्थः ।।

१०,१३६.०३  उन्मदिता मौनेयेन वातां आ तस्थिमा वयम् ।

१०,१३६.०३ शरीरेदस्माकं यूयं मर्तासो अभि पश्यथ ॥

मौनेयेन मुनिभावेन लौकिकसर्वव्यवहारविसर्जनेन उन्मदिताः उन्मत्ता उन्मत्तवदा- चरन्तः । यद्वा । उत्कृष्टं मदं हर्षं प्राप्ताः । वयं वातान् वायूनस्माभिरुपास्यमानान् आ तस्थिम आस्थितवन्तः । हे मर्तासः मनुष्याः अस्माकं शरीरेत् शरीराण्येव यूयं केवलम् अभि पपश्यथ । नास्मान् । यतो वयं नीरूपेण वायुना सायुज्यं प्राप्ताः ।।

१०,१३६.०४  अन्तरिक्षेण पतति विश्वा रूपावचाकशत् ।

१०,१३६.०४ मुनिर्देवस्यदेवस्य सौकृत्याय सखा हितः ॥

मुनिः अस्यर्चो द्रष्टा वृषाणक ऋषिर्वातरूपतां सूर्यात्मतां वा तत्तदुपासनया प्राप्तः सन् अन्त- रिक्षेण आकाशेन पतति गच्छति । किं कुर्वन् । विश्वा विश्वानि सर्वाणि रूपाणि रूप्यमाणानि पदार्थ- जातानि अवचाकशत् अभिपश्यन् स्वतेजसा दर्शयन् । तथा देवस्वदेवस्य । ' नित्यबीप्सयोः ' इति द्विर्वचनम् । ' अनुदात्तं च' इति परस्याम्रेडितस्यानुदात्तत्वम् । सर्वस्यापि देवस्य सखा सखिभूतः अत एव सौकृत्याय । सुष्ठु देवानुद्दिश्य क्रियमाणं यागात्मकं कर्म सुकृतम् । तस्य भावाय सम्यगनुष्ठापनाय हितः निहितः स्थापितो भवति ।।

१०,१३६.०५  वातस्याश्वो वायोः सखाथो देवेषितो मुनिः ।

१०,१३६.०५ उभौ समुद्रावा क्षेति यश्च पूर्व उतापरः ॥

वातस्य वायोर्गतिरिव अश्वः व्याप्तः । यद्वा । वायोः अशिता भोक्ता । वायुरेव तस्याहार इत्यर्थः । अत एव वायोः सखा मित्रभूतः अथो अपि च देवेषितः देवेन द्योतमानेन वायुना सूर्येण वा इषितः प्राप्तः । ' तृतीया कर्मणि ' इति पूर्वपदप्रकृतिस्वरत्वम् । ईदृशो मुनिः करिक्रताख्य ऋषिरुक्तप्रकारेण वायुरूपः सूर्यरूपो वा सन् उभौ समुद्रौ उदधी आ क्षेति अभिगच्छति ।  ' क्षि निवासगत्योः ' । छान्दसो विकरणस्य लुक् । कौ तौ समुद्रौ । यश्च पूर्वः समुद्रः । उतशब्द-

श्चार्थे । यश्च अपरः समुद्रः ।।

१०,१३६.०६  अप्सरसां गन्धर्वाणां मृगाणां चरणे चरन् ।

१०,१३६.०६ केशी केतस्य विद्वान्सखा स्वादुर्मदिन्तमः ॥

अप्सरसां देवस्त्रीणां गन्धर्वाणां चरणे संचारभूते दिव्यन्तरिक्षे च तथा मृगाणां सिंहा- दीनां संचारस्थले पृथिव्यां चरन् व्याप्य संचरन् केशी अग्निर्वायुः सूर्यो वा केतस्य ज्ञातव्यस्य सर्वस्यार्थजातस्य विद्वान् यद्वा ज्ञातव्यस्यास्यर्षेरेतशस्य सखा विद्वान् अविशेषात् सर्वं जानन् स्वादुः स्वादयिता रसयिता सर्वस्य रसस्योत्पादकः अत एव मदिन्तमः मादयितृतमो भवति ।  ' नाद्धस्य ' इति नुडागमः ।।

१०,१३६.०७  वायुरस्मा उपामन्थत्पिनष्टि स्मा कुनन्नमा ।

१०,१३६.०७ केशी विषस्य पात्रेण यद्रुद्रेणापिबत्सह ॥

केशी रश्मिभिर्युक्तः सूर्यः रुद्रेण रुद्रपुत्रेण मरुद्गणेन । यद्वा । ' रुद्रो वा एष यदग्निः ' ( तै. सं. ...) इति श्रवणाद्रुद्रो वैद्युताग्निः । तेन सह वर्तमानो विषस्य । उदकनामैतत् ।  ' क्रियाग्रहणं कर्तव्यम् ' इति कर्मणः संप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । विषमुदकं पात्रेण पानसाधनेन रश्मिजालेन य् यदा अपिबत् पिबति तदा अस्मै केशिने  वायुः उपामन्थत् । भूगतं सर्वं रसमुपमथ्नाति । यद्वा । यदापिबत् पीतवान् भवति तदा सूर्यमण्डले घनीभूतमस्य तदुदकं वायुरुप- मथ्नाति । मन्थनेन वैद्युताग्निनालोडयति । तथा कुनंनमा कुत्सितमपि भृशं नमयित्री स्वयं नमयितु- मशक्या स्वतन्त्रा माध्यमिका वाक् पिनष्टि स्म। यथाधस्तात् स्रवति तथा चूर्णीकरोति । स्मेति प्रसिद्धौ । कुपूर्वान्नमयतेः पचाद्यचि ' यङोऽचि च ' इति यङो लुक् । थाथादिनोत्तरपदान्तो- दात्तत्वम् ।। ।। २४ ।।

कूष्माण्ड पद्म ४.२१.२४ ( कार्तिक व्रत में कूष्माण्ड भोजन से धन हानि का उल्लेख ), ६.१२.४ ( जालन्धर - सेनानी सर्परोमा का कूष्माण्ड गण के साथ युद्ध का उल्लेख ), ब्रह्मवैवर्त्त ३.४.६३ ( पुण्यक व्रत विधान के अन्तर्गत पुत्र प्राप्ति हेतु कूष्माण्ड, नारिकेल प्रभृति फलों को श्रीहरि को समर्पित करने का उल्लेख ), ब्रह्माण्ड २.३.७.७४ ( अज व शण्ड नामक कूष्माण्डों द्वारा ब्रह्मधना व जतुधना नामक कन्याओं का राक्षस से विवाह करने का वर्णन ), २.३.७.३७४, ३८४ (कपिशा के पुत्रों कूष्माण्डों के १६ गणों का उल्लेख ), २.३.४१.२९ ( शिव मन्दिर में प्रवेश से पूर्व परशुराम द्वारा शिव द्वार पर यक्षों, विद्याधरों, भूत - प्रेतों, कूष्माण्डों आदि के दर्शन का उल्लेख ), २.३.७४.९९ ( कूष्माण्ड गौतम : कक्षीवान के सहस्र पुत्रों का नाम ), भागवत ६.८.२४ ( नारायण कवच में श्रीकृष्ण की कौमोद की गदा से कूष्माण्ड, यक्ष, राक्षसादि ग्रहों को कुचल डालने की प्रार्थना ), १०.६.२७ ( भगवान् विष्णु के नामोच्चारण से हाकिनी, राक्षसी और कूष्माण्डों आदि बालग्रहों के भयभीत होकर नष्ट हो जाने का उल्लेख ), मत्स्य ५८.३४ ( कूप, तडाग आदि प्रतिष्ठा विधान के अन्तर्गत दक्षिण द्वार पर स्थित यजुर्वेदी विद्वान् द्वारा रुद्र, सोम, कूष्माण्ड सम्बन्धी सूक्तों के जप का निर्देश ), ९६.५ ( सर्वफलत्याग व्रत के विधान में कूष्माण्ड प्रभृति १६ फलों को स्वर्ण से निर्मित कराने का निर्देश ),१८३.६३ ( अविमुक्त क्षेत्र में महादेव के साथ कूष्माण्ड, जयन्त तथा गजतुण्ड प्रभृति गणों के विराजमान होने का उल्लेख ), वराह १९७.४२ ( यमकिङ्करों में कूष्माण्डों का उल्लेख ), वायु ६९.२५७ ( कूष्माण्डी : पुलह व कपिशा - पुत्री कूष्माण्डी से १६ पिशाच युग्मों के उत्पन्न होने का उल्लेख ), ६९.२६५ ( कूष्माण्डों के १६ गणों के नाम, स्वभाव तथा वेषादि का वर्णन ), विष्णु १.१२.१३ ( विविध रूपधारी कूष्माण्डों तथा स्वयं इन्द्र द्वारा ध्रुव की समाधि भङ्ग करने का प्रयास ), शिव १.१५.५० ( कूष्माण्ड दान से पुष्टि व सर्व - समृद्धि प्राप्ति का उल्लेख ), स्कन्द २.४.३१.२ ( कार्तिक शुक्ल नवमी में विष्णु द्वारा कूष्माण्ड दैत्य का वध, कूष्माण्ड वल्ली की दैत्य रोमों से उत्पत्ति, कूष्माण्ड दान से फल प्राप्ति का कथन ), ४.२.५७.७२ ( महोत्पात प्रशान्ति हेतु कूष्माण्ड नामक विनायक की पूजा का निर्देश ), ६.३६.३४ ( वशीकरण हेतु कूष्माण्डी जपने का निर्देश ),६.२०६.११२ ( विश्वेदेवों  के अश्रुओं से कूष्माण्डों की उत्पत्ति, कूष्माण्ड शब्द की निरुक्ति, ब्रह्मा द्वारा कूष्माण्डों की भोजन व्यवस्था का निरूपण ), लक्ष्मीनारायण १.५३७.६३ ( कूष्माण्ड मुनि के स्थान कूष्माण्डेश्वर में कृष्ण नारायण का आगमन तथा मुनि द्वारा सत्कार ), २.१२.२४,३५ ( दमनक दैत्य द्वारा कूष्माण्ड प्रभृति सेनानायकों को लोमश आश्रम से बालकृष्ण व कन्याओं के हरण का आदेश, कूष्माण्ड का बालकृष्ण के परमात्मत्व का वर्णन करते हुए कन्या हरण से विरत होने की प्रार्थना ), ३.२२.८९ ( अश्वमेध में अश्व की बलि के स्थान पर कूष्माण्ड फल की बलि देने का निर्देश ) ।

 

 

http://www.indusladies.com/forums/pujas-prayers-and-slokas/151202-kushmanda-homam.html

Kushmanda Homam

  


http://periva.proboards.com/thread/1789/importance-kushmanda-homa


IMPORTANCE OF KUSHMANDA HOMA


Make a free website with Yola